Apr 13, 2018

Bhagvad Geeta Adhyay-14


परं भूय: प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम्
यज्ज्ञात्वा मुनय: सर्वे परां सिद्धिमितो गता: -01

इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागता:
सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च -02

मम योनिर्महद्ब्रह्म तस्मिन्गर्भं दधाम्यहम्
संभव: सर्वभूतानां ततो भवति भारत -03

सर्वयोनिषु कौन्तेय मूर्तय: संभवन्ति या:
तासां ब्रह्म महद्योनिरहं बीजप्रद: पिता -04

सत्त्वं रजस्तम इति गुणा: प्रकृतिसंभवा:
निबघ्नन्ति महाबाहो देहे देहिनमव्ययम् -05

तत्र सत्त्वं निर्मलत्वात्प्रकाशकमनामयम्
सुखसंगेन बध्नाति ज्ञानसंगेन चानघ -06

रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम्
ततिबध्नाति कौन्तेय कर्मसंगेन देहिनम् -07

तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम्
प्रमादालस्यनिद्राभिस्ततिबध्नाति भारत -08

सत्त्वं सुखे संजयति रज: कर्मणि भारत
ज्ञानमावृत्य तु तम: प्रमादे संजयत्युत -09

रजस्तमश्चाभिभूय सत्त्वं भवति भारत
रज: सत्त्वं तमश्चैव तम: सत्त्वं रजस्तथा -10

सर्वद्वारेषु देहेऽस्मिन्प्रकाश उपजायते
ज्ञानं यदा तदा विद्याद्विवृद्धं सत्त्वमित्युत -11

लोभ: प्रवृत्तिरारम्भ: कर्मणामशम: स्पृहा
रजस्येतानि जायन्ते विवृद्धे भरतर्षभ - 12

अप्रकाशोऽप्रवृत्तिश्च प्रमादो मोह एव च
तमस्येतानि जायन्ते विवृद्धे कुरुनन्दन -13

यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत्
तदोत्तमविदां लोकानमलान्प्रतिपद्यते -14

रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते
तथा प्रलीनस्तमसि मूढयोनिषु जायते -15

कर्मण: सुकृतस्याहु: सात्त्विकं निर्मलं फलम्
रजसस्तु फलं दु:खमज्ञानं तमस: फलम् -16

सत्त्वात्संजायते ज्ञानं रजसो लोभ एव च
प्रमादमोहौ तमसो भवतोऽज्ञानमेव च -17

ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसा:
जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसा: -18

नान्यं गुणेभ्य: कर्तारं यदा द्रष्टानुपश्यति
गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति -19

गुणानेतानतीत्य त्रीन्देही देहसमुद्भवान्
जन्ममृत्युजरादु:खैर्विमुक्तोऽमृतमश्नुते -20

कैर्लिङ्गैस्त्रीन्गुणानेतानतीतो भवति प्राभो
किमाचार: कथं चैतांस्त्रीन्गुणानतिवर्तते -21

प्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डव
न द्वेष्टि संप्रवृत्तानि न निवृत्तानि काङ्क्षति -22

उदासीनवदासीनो गुणैर्यो न विचाल्यते
गुणा वर्तन्त इत्येव योऽवतिष्ठति नेङ्गते -23

समदु:खसुख: स्वस्थ: समलोष्टाश्मकाञ्चन:
तुल्यप्रियाप्रियो धीरस्तुल्यनिन्दात्मसंस्तुति: -24

मानापमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयो:
सर्वारम्भपरित्यागी गुणातीत: स उच्यते -25

मां च योऽव्यभिचारेण भक्तियोगेन सेवते
स गुणान्समतीत्यैतान्ब्रह्मभूयाय कल्पते -26

ब्रह्मणो हि प्रतिष्ठाहममृतस्याव्ययस्यच
शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च -27

Ma Mogal madi, મોગલ માડી

માં તું ચૌદ ભુવન મા રેહતી,  ઉંઢળ માં આભ લેતી, છોરું ને ખમ્મા કહેતી મારી, મોગલ માડી. લળી લળી પાય લાગું, એ દયાળી દયા માંગુ મારી, મોગલ માડી.   ...