Apr 13, 2018

Bhagvad Geeta Adhyay-17


ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विता:
तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तम: -01

त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा
सात्त्विकी राजसी चैव तामसी चेति तां शृणु -02

सत्त्वानुरूपा सर्वस्य श्रद्धा भवतिभारत
श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्ध: स एव स: -03

यजन्ते सात्त्विका देवान्यक्षरक्षांसि राजसा:
प्रेतान्भूतगणांश्चान्ये यजन्ते तामसा: जना: -04

अशास्त्रविहितं घोरं तप्यन्ते ये तपो जना:
दम्भाहंकारसंयुक्ता: कामरागबलान्विता: -05

कर्षयन्त: शरीरस्थं भूतग्राममचेतस:
मां चैवान्त: शरीरस्थं तान्विद्धयासुरनिश्चयान् -06

आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रिय:
यज्ञस्तपस्तथा दानं तेषां भेदमिमं शृणु -07

आयु:सत्त्वबलारोग्य  सुखप्रीतिविवर्धना:
रस्या: स्निग्धा: स्थिराहृद्या आहारा: सात्त्विकप्रिया: -08

कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिन:
आहारा राजसस्येष्टा दु:खशोकामयप्रादा: -09

यातयामं गतरसं पूति पर्युषितं च यत्
उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम्  -10

अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते
यष्टव्यमेवेति मन: समाधाय स सात्त्विक: -11

अभिसन्धाय तु फलं दम्भार्थमपि चैव यत्
इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम् -12

विधिहीनमसृष्टातं मन्त्रहीनमदक्षिणम्
श्रद्धाविरहितं यज्ञं तामसं परिचक्षते -13

देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम्
ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते -14

अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत्
स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते -15

मन:प्रसाद: सौम्यत्वं मौनमात्मविनिग्रह:
भावसंशुद्धिरित्येतत्तपो मानसमुच्यते -16

श्रद्धया परया तप्तं तपस्तत्त्रिविधं नरै:
अफलाकाङ्क्षिभिर्युक्तै:सात्त्विकं परिचक्षते -17

सत्कारमानपूजार्थं तपो दम्भेन चैव यत्
क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम् -18

मूढग्राहेणात्मनो यत्पीडया क्रियते तप:
परस्योत्सादनार्थं वा तत्तामसमुदाहृतम् -19

दातव्यमिति यद्दानं दीयतेऽनुपकारिणे|
देशे काले च पात्रे च तद्दानं सात्त्विकं स्मृतम् -20

यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वापुन:
दीयते च परिक्लिष्टं तद्दानम् राजसं स्मृतम् -21

अदेशकाले यद्दानमपात्रेभ्यश्च दीयते
असत्कृतमवज्ञातं तत्तामसमुदाहृतम् -22

ओम तत्सदिति निर्देशो ब्रह्मणस्त्रिविध: स्मृत:
ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिता: पुरा -23

तस्मादोमित्युदाहृत्य यज्ञदानतप:क्रिया:
प्रवर्तन्ते विधानोक्ता: सततं ब्रह्मवादिनाम् -24

तदित्यनभिसंधाय फलं यज्ञतप:क्रिया:
दानक्रियाश्च विविधा: क्रियन्ते मोक्षकाङ्क्षिभि: -25

सद्भावे साधुभावे च सदित्येतत्प्रयुज्यते
प्रशस्ते कर्मणि तथा सच्छब्द: पार्थ युज्यते -26

यज्ञे तपसि दाने च स्थिति: सदिति चोच्यते
कर्म चैव तदर्थीयं सदित्येवाभिधीयते -27

अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत्
असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह -28

Ma Mogal madi, મોગલ માડી

માં તું ચૌદ ભુવન મા રેહતી,  ઉંઢળ માં આભ લેતી, છોરું ને ખમ્મા કહેતી મારી, મોગલ માડી. લળી લળી પાય લાગું, એ દયાળી દયા માંગુ મારી, મોગલ માડી.   ...