Apr 12, 2018

Bhagvad Geeta Adhyay-8


किं तद्ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम
अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते -01

अधियज्ञ: कथं कोऽत्र देहेस्मिन्मधुसूदन
प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभि: -02

अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते
भूतभावोद्भवकरो विसर्ग: कर्मसंज्ञित: -03

अधिभूतं क्षरो भाव: पुरुषश्चाधिदैवतम्
अधियज्ञोऽहमेवात्र देहे देहभृतां वर -04

अन्तकाले च मामेव स्मरन्मुक्त्वा कलेवरम्
य: प्रयाति स मद्भावं याति नास्त्यत्र संशय: -05

यं यं वाऽपि स्मरन्भावं त्यजत्यन्ते कलेवरम्
तं तमेवैति कौन्तेय सदा तद्भावभावित: -06

तस्मात्सर्वेषु कालेषु मामनुस्मर युध्य च
मय्यर्पितमनोबुद्धिर्मामेवैष्यस्यसंशयम् -07

अभ्यासयोगयुक्तेन चेतसा नान्यगामिना
परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् -08

कविं पुराणमनुशासितार
मणोरणीयांसमनुस्मरेद्या: |
सर्वस्य धातारमचिन्त्यरूप मा
दित्यवर्णं तमस: परस्तात् -09

प्रयाणकाले मनसाऽचलेन
भक्त्या युक्तो योगबलेन चैव |
भ्रुवोर्मध्ये प्राणमावेश्य सम्यक्
स तं परं पुरुषमुपैति दिव्यम् -10

यदक्षरं वेदविदो वदन्ति
विशन्ति यद्यातयो वीतरागा: |
यदिच्छन्तो ब्रह्मचर्यं चरन्ति
तत्ते पदं संग्रहेण प्रवक्ष्ये -11

सर्वद्वाराणि संयम्य मनो हृदि निरुध्यच
मूर्ध्न्याधायात्मन: प्राणमास्थितो योगधारणाम् -12

ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन्
य: प्रयाति त्यजन्देहं स याति परमां गतिम् -13

अनन्यचेता: सततं यो मां स्मरति नित्यश:
तस्याहं सुलभ: पार्थ नित्ययुक्तस्य योगिन: -14

मामुपेत्य पुनर्जन्म दु:खालयमशाश्वतम्
नाप्नुवन्ति महात्मान: संसिद्धिं परमां गता: -15

आब्रह्मभुवनाल्लोका: पुनरावर्तिनोऽर्जुन
मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते -16

सहस्रयुगपर्यन्तमहर्यद्ब्रह्मणो विदु:
रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जना: -17

अव्यक्ताद्व्यक्तय: सर्वा: प्रभवन्त्यहरागमे
रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसंज्ञके -18

भूतग्राम: स एवायं भूत्वा भूत्वा प्रलीयते
रात्र्यागमेऽवश: पार्थ प्रभवत्यहरागमे -19

परस्तस्मात्तु भावोऽन्योऽव्यक्तोऽव्यक्तात्सनातन:
य: स सर्वेषु भूतेषु नश्यत्सु न विनश्यति -20

अव्यक्तोऽक्षर इत्युक्तस्तमाहु: परमां गतिम्
यं प्राप्य न निवर्तन्ते तद्धाम परमं मम -21

पुरुष: स पर: पार्थ भक्त्या लभ्यस्त्वनन्यया
यस्यान्त:स्थानि भूतानि येन सर्वमिदं ततम् -22

यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिन:
प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ -23

अगिर्न्ज्योतिरह: शुक्ल: षण्मासा उत्तरायणम्
तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जना: -24

धूमो रात्रिस्तथा कृष्ण: षण्मासा दक्षिणायनम्
तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते -25

शुक्लकृष्णे गती ह्येते जगत: शाश्वते मते
एकया यात्यनावृत्तिमन्ययावर्तते पुन:-26

नैते सृती पार्थ जानन्योगी मुह्यति कश्चन
तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन -27

वेदेषु यज्ञेषु तप:सु चैव दानेषु यत्पुण्यफलं प्रदिष्टम्
अत्येति तत्सर्वमिदं विदित्वा योगी परं स्थानमुपैति चाद्यम् -28

Ma Mogal madi, મોગલ માડી

માં તું ચૌદ ભુવન મા રેહતી,  ઉંઢળ માં આભ લેતી, છોરું ને ખમ્મા કહેતી મારી, મોગલ માડી. લળી લળી પાય લાગું, એ દયાળી દયા માંગુ મારી, મોગલ માડી.   ...